|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.171. अध्यायः 171
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मार्गशीर्षादि कार्तिकान्तेषु द्वादशमासेषु द्वादशद्वादशीषु केशवादिदामोदरान्तभगवद्रूपविशेषपूजाफलविशेषकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[*युधिष्ठिर उवाच।
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम्।
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि॥ 13-171-1(88273)
भीष्म उवाच। 13-171-2x(7374)
शृणु राजन्यथा गीतं स्वयमेव स्वयंभुवा।
यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः॥ 13-171-2(88274)
द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम्।
अर्च्याश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति॥ 13-171-3(88275)
तथैव पौषमासे तु पूज्यो नारायणेति च।
वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत्॥ 13-171-4(88276)
अहोरात्रेण द्वादश्यां माघमासे तु माघवम्।
राजसूयमवाप्नोति कुलं चैव समुद्धरेत्॥ 13-171-5(88277)
तथैव फाल्गुने मासि गोविन्देति च पूजयन्।
अतिरात्रमवाप्नोति सोमलोकं च गच्छति॥ 13-171-6(88278)
अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन्।
पौण्डरीकमवाप्नोति देवलोकं च गच्छति॥ 13-171-7(88279)
वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम्।
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति॥ 13-171-8(88280)
अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्।
गवां मेधमवाप्नोति अप्सरोभिश्च मोदते॥ 13-171-9(88281)
आषाढे मासि द्वादश्यां वामनेति च पूजयन्।
नरमेधमवाप्नोति पुण्यं च लभते महत्॥ 13-171-10(88282)
अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम्।
पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते॥ 13-171-11(88283)
तथा भाद्रपदे मासि हृषीकेशेति पूजयन्।
सौत्रामणिमवाप्नोति पूतात्मा भवते च हि॥ 13-171-12(88284)
द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन्।
गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः॥ 13-171-13(88285)
द्वादश्यां कार्तिके मासि पूज्यो दामोदरेति च।
गवां यज्ञमवाप्नोति पुमान्स्त्री वा न संशयः॥ 13-171-14(88286)
अर्चयेत्पुण्डरीकाक्षमेवं संवत्सरं तु यः।
जातिस्मरत्वं प्राप्नोति विन्द्याद्बहु सुवर्णकम्॥ 13-171-15(88287)
अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति।
समाप्ते भोजयेद्विप्रानथवा दापयेद्धृतम्॥ 13-171-16(88288)
अतः परं नोपवासो भवतीति विनिश्चयः॥
उवाच भगवान्विष्णुः स्वयमेव पुरातनम्॥] ॥ 13-171-17(88289)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः॥ 171 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
* एतदाद्यध्यायद्वयं झ.पुस्तक एव दृश्यते। 7-171-3 अर्च्य अभ्यर्च्य॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|